|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.138. अध्यायः 138
Mahabharata - Vana Parva - Chapter Topics
रैभ्याश्रमे तत्स्नुषायाः परावसुभार्याया दर्शनाज्जातकामेन यवक्रीतेन एकान्ते बलात्कारेण तदुपभोगः ॥ 1 ॥ रुदत्यातया निवेदितवृत्तान्तेन रौभ्येण यवक्रीतहननाय ज्जटाभ्यां कृत्यारक्षसोः सर्ज्जनम् ॥ 2 ॥ कृत्यया रूपसंपदा संमोह्य कमण्डलुहरणए रात्रसाभिद्रावितेन यवक्रीतेन स्वपितुरग्निहोत्रगृहप्रवेशः ॥ 3 ॥ तदाऽन्धेन द्वारकशूद्रेण निवारितस्य यवक्रीतस्य राक्षसेन हननम् ॥ 4 ॥
Mahabharata - Vana Parva - Chapter Text
लोमश उवाच। 3-138-0x(2216)(21170)
चङ्क्रम्यमाणः स तदा यवक्रीरकुतोभयः।
जगाम माधवे मासि रैभ्याश्रमपदं प्रति ॥ 3-138-1(21171)
स ददर्शाश्रमे रम्ये पुष्पतद्रुमभूषिते।
विचरन्तीं स्नुषां तस्य किन्नरीमिव भारत ॥ 3-138-2(21172)
यवक्रीस्तामुवाचेदमुपतिष्ठस्व मामिनि।
निर्लज्जो लज्जया युक्तां कामेन हृतचेतनः ॥ 3-138-3(21173)
सा तस्य शीलमाज्ञाय तस्माच्छापाच्च बिभ्यती।
तेजस्वितां च रैभ्यस् तथेत्युक्त्वा जगाम ह ॥ 3-138-4(21174)
तत एकान्तमानीय लज्जयामास भारत।
आजगाम तदा रैभ्यः स्वमाश्रममरिंदम ॥ 3-138-5(21175)
रुदतीं च स्नुषां दृष्ट्वा भार्यामार्ता परावसोः।
सान्त्वयञ्श्लक्ष्णया वाचा पर्यपृच्छद्युधिष्ठिर ॥ 3-138-6(21176)
सा तस्मै सर्वमाचष्ट यवक्रीभाषितं शुभा।
प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तथाऽऽत्मना ॥ 3-138-7(21177)
शृण्वानस्यैव रैभ्यस्य यवक्रेस्तद्विचेष्टनम्।
दहन्निव तदा चेतः क्रोधः समभवन्महान् ॥ 3-138-8(21178)
स तदा मन्युनाऽऽविष्टस्तपस्वी कोपनो भृशम्।
अवलुप्य जटामेकां जुहावाग्नौ सुसंस्कृते ॥ 3-138-9(21179)
ततः समभवन्नारी तस्या रूपेण संमिता।
अवलुप्यापरां चापि जुहावाग्नौ जटां पुनः ॥ 3-138-10(21180)
ततः समभवद्रक्षो दीप्तास्यं घोरदर्शनम्।
अब्रूतां तौ तदा रैभ्यं किं कार्यं करवामहे ॥ 3-138-11(21181)
तावब्रवीदृषिः क्रुद्धो यवक्रीर्वध्यतामिति।
जग्मतृस्तौ तथेत्युक्त्वा यवक्रीतजिघांसया ॥ 3-138-12(21182)
ततस्तं समुपास्थाय कृत्या सृष्टा महात्मना।
कमण्डलुं जहारास्य मोहयित्वा तु भारत ॥ 3-138-13(21183)
उच्छिष्टं तु यवक्रीतमपकृष्टकमण्डलुम्।
तत उद्यतशूलः स राक्षसः समुपाद्रवत् ॥ 3-138-14(21184)
तमाद्रवन्तं संप्रेक्ष्य शूलहस्तं जिघांसया।
यवक्रीः सहसोत्थाय प्राद्रवद्यत्रवै सरः ॥ 3-138-15(21185)
जलहीनं सरो दृष्ट्वा यवक्रीस्त्वरितः पुनः।
जगाम सरितः सर्वास्ताश्चाप्यासन्विशोषिताः ॥ 3-138-16(21186)
स काल्यमानो घोरेण शूलहस्तेन रक्षसा।
अग्निहोत्रे पितुर्भीतः सहसा प्रविवेश ह ॥ 3-138-17(21187)
स वै प्रविशमानस्तु शुद्रेणान्धेन रक्षिणा।
निगृहीतो बलाद्द्वारि सोऽवातिष्ठत पार्थिव ॥ 3-138-18(21188)
निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः।
ताडयामास शूलेन स भिन्नहृदयोऽपतत् ॥ 3-138-19(21189)
यवक्रीतं स हत्वा तु राक्षसो रैभ्यमागमत्।
अनुज्ञातस्तु रैभ्येण तया नार्या सहावसत् ॥ 3-138-20(21190)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि अष्टत्रिंशदधिकशततमोऽध्यायः ॥ 138 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-138-5 एकान्तमुन्नीय मज्जयामासेति झ. पाठः। तत्र एकान्तं उन्नीय एकान्ते कार्यं रतं समाप्य मज्जयामास संमुद्रे इत्यर्थः ॥ 3-138-7 प्रत्युक्तं प्रत्याख्यातम्। मदुपरि बलात्कारं कृतवानित्युक्तवतीत्यर्थः ॥ 3-138-10 नारी कृत्या ॥ 3-138-17 काल्यमानः सर्वतो निषिध्यमानः अग्निहोत्रे अग्निहोत्रशालायाम् ॥ 3-138-18 अवातिष्ठत बहिरेव ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|